चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम्
मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः 4.2.76.
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ
तत्र भक्तजनाकीर्णं प्रासादं परितो मुने
देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम्
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः
ततो विलोकयामास तदागमविनिर्गमौ
केनाध्वना च निर्यातः क्व काले कुरुतश्च किम्
मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत्
अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः 4.2.76.
करिणां तु सहस्रेण वराश्वानां न लक्षतः
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित्
इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः
अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम्
तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः
सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः
कति देवालयेष्वेषु खगा नोपविशंति हि
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये
रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे
इत्थं पारावतवचः श्रुत्वा पारावती ततः 4.2.76.
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया
अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती
अथ मंडलगत्या स प्रासादं परितो भ्रमन्
गतेऽथ नभसि श्येने पुनः पारावतांगना
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत्
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम्
प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः
यथैतास्विह कौशल्यं मयि पारावति प्रिये