यतः सर्वेषु लिंगेषु लिंगमेतदनुत्तमम्
पुरा मे योगयुक्तस्य लिंगमेतद्भुवस्तलात्
अस्मिँल्लिगे पुरा गौरि सुगुप्तं तिष्ठता मया
त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः
त्रिलोचनस्य लिंगस्य महिमानं न कश्चन
शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे
त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै
सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः
विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः 4.2.75.
तावद्धमंति संसारे देवा मर्त्या महोरगाः
सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे
प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि
त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि
पादोदकाख्यस्तत्रैव कूपः पापविनाशकः
तस्य लिंगस्य पार्श्वे तु संति लिंगान्यनेकशः
तत्र शांतनवं लिंगं गंगातीरे प्रतिष्ठितम्
तद्दक्षिणे महालिंगं मुने भीष्मेश संज्ञितम्
तत्प्रतीच्यां महालिंगं द्रोणेश इति कीर्तितम्
अश्वत्थामेश्वरं लिंगं तदग्रे चातिपुण्यदम् 4.2.75.
द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम्
तद्वामे लिंगमालोक्य वाल्मीकेश्वरसंज्ञितम्
अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव
इतिहास इहासीद्यः पीठे विरजसंज्ञिते
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते
कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये
मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः
देदीप्यमान सौवर्ण कलशेन विराजिते
तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम्
उड्डीयमानं परितः पक्षवातेरितस्ततः
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम्