कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् 4.2.75.
विद्यमाने महालिंगे महापापौघहारिणि
समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम्
ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः
परदाररतश्चापि परहिंसा रतोपि वा
कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा
गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च
निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः
इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम
शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः
आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः 4.2.75.
शिवनिंदारता ये च शिवभक्तजनेष्वपि
शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः
सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया
पुरश्चरणकामश्चेद्भीतोसि यदि पापतः
ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम्
यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम्
तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले
त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि
दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः
गंधाद्यैर्विविधैर्माल्यैः पंचामृतपुरःसरैः 4.2.75.
पूजोपकरणैर्द्रव्यैर्घंटादर्पणचामरैः
जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः
ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन्
ततः पंचनदे स्नात्वा मणिकर्णी ह्रदे ततः
प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम्
क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते
भुजंगमेखलं लिंगं काश्यां दृष्ट्वा त्रिविष्टपम्
अन्यत्र सर्वलिंगेषु पुण्यकालो विशिष्यते
लिंगान्योंकारमुख्यानि सर्वपापप्रकृंत्यलम् 4.2.75.