यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् 4.2.75.
तल्लिंगार्चनतो नृणां गर्भवासो निषिध्यते
स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः
त्रिविष्टपस्य लिंगस्य स्मरणादपि मानवः
त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः
आनंदकानने लिंगं प्रणतं यैस्त्रिविष्टपम्
सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः
तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम्
क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत
यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहांभसि
तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति 4.2.75.
दृष्ट्वा त्रिविष्टपं लिंगं कोटितीर्थफलं लभेत्
काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम्
दृष्ट्वा त्रिविष्टपं लिंगं तत्पापमपि हास्यति
तत्रापि सर्वतीर्थानि ततोप्योंकारभूमिका
अतिश्रेष्ठतरं लिंगं श्रेयोरूपं त्रिलोचनम्
तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी
त्रिलोचनार्चकानां सा पदवी न दवीयसी
सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते
काश्यां त्रिलोचनं लिंगं येर्चयंति महाधियः
कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् 4.2.75.
विद्यमाने महालिंगे महापापौघहारिणि
समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम्
ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः
परदाररतश्चापि परहिंसा रतोपि वा
कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा
गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च
निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः
इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम
शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः