सदक्षरं चादिरूपं विश्वरूपं परावरम्
सर्वलोकैकजनकं सर्वलोकैकरक्षकम्
आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम्
निरुपाधिं निराकारं निर्विकारं निरंजनम्
स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम्
वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम्
एतन्नामाक्षररसं रसयंती दिवानिशम् 4.2.74.
संमार्जनं रंगमालाः प्रासादं परितः सदा
तत्र पाशुपता ये वै प्रणवेशार्चने रताः
वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी
यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः
गायंती मधुरं गीतं नृत्यंती निजलीलया
अनेनैव शरीरेण पार्थिवेन महामतिः
प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम्
राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः
तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः
ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः 4.2.74.
सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ।। 4.2.74.
ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः 4.2.74.
ओंकारसदृशं लिंगं न क्वचिज्जगतीतले
इममध्यायमाकर्ण्य नरस्तद्गतमानसः
न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम्
कथं च कथिता देव्यै देवदेवेन षण्मुख
स्कंद उवाच आकर्णय मुने वच्मि कथां श्रमनिवारिणीम्
विरजाख्यं हि तत्पीठं तत्र लिंगं त्रिविष्टपम्
तिस्रस्तु संगतास्तत्र स्रोतस्विन्यो घटोद्भव
स्रोतोमूर्तिधराः साक्षाल्लिंगस्नपनहेतवे
तिस्रोपि हि त्रिसंध्यं ताः सरितः कुंभपाणयः
लिंगानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि
सरस्वतीश्वरं लिंगं दक्षिणेन त्रिविष्टपात्