वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत्
शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः
कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः
प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि
शुभावयवसंस्थाना शुभलक्षणलक्षिता
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा 4.2.74.
ताना एकोनपंचाश ताला एकोत्तरंशतम्
षड्विंशद्रागरागिण्य इति रागि मुदावहाः
यावंत एव तालाः स्यु रागास्तावंत एव हि
माधवी मधुरालापा सदोंकारं समर्चयेत्
प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै
दमनस्थैर्यमगमद्योगेनेव महात्मनः
अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे
तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत
इति संचितयंत्येव सेवां तत्याज नोंकृतेः
नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि 4.2.74.
तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ
नान्यत्र चरणौ तस्याश्चरतः सुखवांछया
ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम्
सदक्षरं चादिरूपं विश्वरूपं परावरम्
सर्वलोकैकजनकं सर्वलोकैकरक्षकम्
आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम्
निरुपाधिं निराकारं निर्विकारं निरंजनम्
स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम्
वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम्
एतन्नामाक्षररसं रसयंती दिवानिशम् 4.2.74.
संमार्जनं रंगमालाः प्रासादं परितः सदा
तत्र पाशुपता ये वै प्रणवेशार्चने रताः
वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी