कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः
वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः
विशालाक्षो महाभीमः कुंडोदरमहोदरौ
नंदिसेनश्च पंचालः खरपादकरंटकः
तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम्
कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान्
एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् 4.2.74.
अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम्
एका भेकी मुने तत्र चरंती लिंग सन्निधौ
सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात्
वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत्
शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः
कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः
प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि
शुभावयवसंस्थाना शुभलक्षणलक्षिता
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा 4.2.74.
ताना एकोनपंचाश ताला एकोत्तरंशतम्
षड्विंशद्रागरागिण्य इति रागि मुदावहाः
यावंत एव तालाः स्यु रागास्तावंत एव हि
माधवी मधुरालापा सदोंकारं समर्चयेत्
प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै
दमनस्थैर्यमगमद्योगेनेव महात्मनः
अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे
तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत
इति संचितयंत्येव सेवां तत्याज नोंकृतेः
नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि 4.2.74.
तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ
नान्यत्र चरणौ तस्याश्चरतः सुखवांछया
ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम्