लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम्
लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा
चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः
क्रियते च तदा धर्मो नाकाले मरणं नृणाम्
कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता
ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च
तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः
तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः
ततस्तु द्वापरं नाम तृतीयं युग मुच्यते 7.3.10.
फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च
तत्रान्योन्यं महीपाला युयुधुर्वसुधातले
ततः कलियुगं घोरं चतुर्थं तु प्रव र्त्तते
कृष्णवर्णो भवेद्विष्णुः पापाधिक्यं प्रवर्तते
अर्थलुब्धास्तथा भूपा लोभमोहशतान्विताः
अल्पक्षीरास्तथा गावः सत्यहीना द्विजातयः
सत्यहीनास्तथा पापा भविष्यंति कलौ युगे
नार्यो द्वादशमे वर्षे भविष्यंति सुगर्भिताः
एकाकारा भविष्यंति सर्ववर्णाश्रमाश्च वै
व्यर्थानि तत्र तीर्थानि म्लेच्छस्पृष्टानि सर्वशः 7.3.10.
एतच्छ्रुत्वा ततो वाक्यं ब्रह्मणोऽव्यक्तजन्मनः
स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि
अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह
अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः
ततः सर्वाणि तीर्थानि गतानि च कलौ युगे
भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात्
कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च
तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके
तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते 7.3.10.
तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः