वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात्
पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः
इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम्
क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत्
अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके
रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः
प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः 4.2.74.
तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः
उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः
रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम्
कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः
वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः
विशालाक्षो महाभीमः कुंडोदरमहोदरौ
नंदिसेनश्च पंचालः खरपादकरंटकः
तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम्
कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान्
एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् 4.2.74.
अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम्
एका भेकी मुने तत्र चरंती लिंग सन्निधौ
सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात्
वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत्
शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः
कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः
वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः
प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि
शुभावयवसंस्थाना शुभलक्षणलक्षिता
सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा 4.2.74.
ताना एकोनपंचाश ताला एकोत्तरंशतम्
षड्विंशद्रागरागिण्य इति रागि मुदावहाः
यावंत एव तालाः स्यु रागास्तावंत एव हि