मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना
तेनैव महती सिद्धिर्भवित्री मम नान्यथा
अनेनैव शरीरेण पार्थिवेन प्रथीयसी
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् मुमुक्षूणां धृतवतां महापाशुपतं व्रतम्
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम्
अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम्
समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् 4.2.74.
कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि
दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि
अनेकजन्मजनित महापापाद्रिवज्रिणि
विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः
एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि
यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम्
तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो
अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी
रागबीजसमुद्भूतः संसारविटपो महान्
सर्वेषामूषराणां तु काशी परम ऊषरः 4.2.74.
स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः
विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा
कृमिकीटपतंगानामविमुक्ते तनुत्यजाम्
वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात्
पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः
इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम्
क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत्
अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके
रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः
प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः 4.2.74.
तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः
उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः
रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम्