पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय
कथयामि यथार्थं ते निजचेतोविचेष्टितम्
संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम्
स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः
शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम्
शिखराणि गिरींद्राणां मया चाध्युषितान्यहो 4.2.74.
रसायनानि बहुशः सेवितानि मया पुनः
मया प्रविष्टा बहुशः कृतांतवदनोपमाः
परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो
मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना
तेनैव महती सिद्धिर्भवित्री मम नान्यथा
अनेनैव शरीरेण पार्थिवेन प्रथीयसी
प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् मुमुक्षूणां धृतवतां महापाशुपतं व्रतम्
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम्
अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम्
समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् 4.2.74.
कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि
दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि
अनेकजन्मजनित महापापाद्रिवज्रिणि
विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः
एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि
यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम्
तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो
अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी
रागबीजसमुद्भूतः संसारविटपो महान्
सर्वेषामूषराणां तु काशी परम ऊषरः 4.2.74.
स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः
विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा
कृमिकीटपतंगानामविमुक्ते तनुत्यजाम्