त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः
प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः
वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः
शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च
यदंतर्लीनमखिलं भूतं भावि भवत्पुनः
लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम्
पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत्
तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् 4.2.73.
नानावर्णस्वरूपाय वर्णानां पतये नमः 4.2.73.
शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते 4.2.73.
सर्वभुक्सर्वकर्ता त्वं सर्वसंहारकारक 4.2.73.
त्वमेव हि शरण्यं मे त्वमेव हि गतिः परा 4.2.73.
सुरश्रेष्ठ तपःश्रेष्ठ सर्वाम्नाय निधिर्भव 4.2.73.
अष्टम्यां च चतुर्दश्यां तीर्थानि सह सागरैः 4.2.73.
केवलं भूमिभाराय जन्मिनो जन्म तस्य वै 4.2.73.
स्तुवन्ब्रह्म स्तवेनैव स्वात्मना विहितेन हि ।।4.2.73.
ब्रह्मस्तवमिमं जप्त्वा त्रिकालं परिवत्सरम्
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः
भारद्वाजस्य तनयो दमनो नाम नामतः
संसारदुःखबहुलं जीवितं चापि चंचलम्
कांचिद्दिशं समालंब्य निर्वेदं परमं गतः
प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः
अध्युवास स तावंति संयतेंद्रियमानसः
मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः
रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम्
दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह
विभूतिभूषिततनून्कृतलिंगसमर्चनान् 4.2.74.
स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान्
प्रबद्धहस्तयुगलः प्रणमतरकंधरः
वार्धकेन समाक्रांतस्तपसा कृशविग्रहः