ओंकारेशस्य लिंगस्य कथमत्र समागमः
किमात्मकोऽयमोंकारो महिमास्य च को हर
मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम्
यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत्
पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना
पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्
यदंतराविरभवन्निर्व्याजेन समाधिना
योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः ।। 4.2.73.
स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने
अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम्
उकारमथ तस्याग्रे रजोरूपं यजुर्जनिम्
नीरवध्वांतसंकेत सदनाभं तदग्रतः
साम्नो योनिं लये हेतुं साक्षाद्रुद्रस्वरूपिणम्
विश्वरूपमयाकारं सगुणं वापि निर्गुणम्
शव्दब्रह्मेति यत्ख्यातं सर्ववाङ्मयकारणम्
कारणं कारणानां च जगद्योनिं च तं परम्
अवनादोमिति ख्यातं सर्वस्यास्य प्रभावतः
अरूपोपि सरूपाढ्यः स धात्रा नेत्रगीकृतः ततस्तार इति ख्यातो यस्तं ब्रह्मा व्यलोकयत् ।। 4.2.73.
प्रणूयते यतः सर्वैः परनिर्वाणकामुकैः
स्वसेवितारं पुरुषं प्रणयेद्यः परंपदम्
त्रयीमयस्तुरीयोयस्तुर्यातीतोखिलात्मकः
प्रावर्तंत यतो वेदाः सांगाः सर्वस्य योनयः
वृषभो यस्त्रिधाबद्धो रोरवीति महोमयः
शृंगश्चत्वारि यस्यासन्हस्तासः सप्त एव च
यदंतर्लीनमखिलं भूतं भावि भवत्पुनः
लीनं मृग्येत यत्रैतदाब्रह्मस्तंबभाजनम्
पंचार्था यत्र भासंते पंचब्रह्ममयं हि यत्
तमालोक्य ततो वेधा लिंगरूपिणमीश्वरम् 4.2.73.
नानावर्णस्वरूपाय वर्णानां पतये नमः 4.2.73.
शब्दब्रह्म नमस्तुभ्यं परब्रह्म नमोस्तुते 4.2.73.