इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि मयैतानि कृतान्येव महाभक्तिकृपावशात्
अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये
त एव व्रतिनः कांते त एव च तपस्विनः
त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि
इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः
येनाविमुक्तमासाद्य महालिंगानि पार्वति
स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज
शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः 4.2.73.
उपशांत शिवो ज्येष्ठो निवासेश्वर एव च
मुने चतुर्दशैतानि महांत्यायतनानि वै
चैत्रकृष्णप्रतिपदं समारभ्य प्रयत्नतः
एतेषां वार्षिकी यात्रा सुमहोत्सवपूर्वकम्
मुने चतुर्दशैतानि महालिंगानि यत्नतः
क्षेत्रस्य परमं तत्त्वमेतदेव प्रिये ध्रुवम्
क्षेत्रस्योपनिषच्चैषा मुक्तिबीजमिदं परम्
एकैकस्यास्य लिंगस्य महिमाद्यंत वर्जितः
इति श्रुत्वा मुने प्राह देवी हृष्टतनूरुहा
तच्छ्रुत्वोत्सुकतां प्राप्तं मनो मेतीव वल्लभ ।। 4.2.73.
यदुक्तं लिगमेकैकं महासारतरं परम्
प्रत्येकं महिमानं मे ब्रूह्येषां भुवनेश्वर
ओंकारेशस्य लिंगस्य कथमत्र समागमः
किमात्मकोऽयमोंकारो महिमास्य च को हर
मृडानीवाक्सुधामेतां विधाय श्रुतिगोचराम्
यथोंकारस्य लिंगस्य प्रादुर्भाव इहाभवत्
पुरानंदवने चात्र ब्रह्मणा विश्वयोनिना
पूर्णे युगसहस्रेऽथ भित्त्वा पातालसप्तकम्
यदंतराविरभवन्निर्व्याजेन समाधिना
योभूच्चटचटाशब्दः स्फुटतो भूमिभागतः ।। 4.2.73.
स्रष्टाविसृष्ट तद्ध्यानो यावदुन्मील्यलोचने
अकारं सत्त्वसंपन्नमृक्क्षेत्रं सृष्टिपालकम्