रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम्
वीरेश्वरं च नवमं कामेशं दशमं विदुः
द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम्
प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि
देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः
आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि
प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम्
अनाराध्य महादेवमेषु लिंगेषु कुंभज 4.2.73.
तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः
निर्वाणकारणानीह यदि संति तदा वद
कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै
यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः
येषां नामग्रहेणापि कलिकल्मष संक्षयः
मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा
वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः
काश्यां चतुर्दशैतानि महालिंगानि सुंदरि
कलिकल्मषबुद्धीनां नाख्येयानि कदाचन
न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ।। 4.2.73.
एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत्
चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि
इमानि यानि लिंगानि सर्वेषां मुक्तिदानि हि मयैतानि कृतान्येव महाभक्तिकृपावशात्
अस्मिन्क्षेत्रे ध्रुवं मुक्तिरिति या प्रथिति प्रिये
त एव व्रतिनः कांते त एव च तपस्विनः
त एवाभ्यस्तसद्योगा दत्तदानास्त एव हि
इष्टापूर्ताश्च ये धर्माः प्रणीता मुनिसत्तमैः
येनाविमुक्तमासाद्य महालिंगानि पार्वति
स्वभक्तानां हिताथार्य तान्यथाकर्णयाग्रज
शैलेशः संगमेशश्च स्वर्लीनो मध्यमेश्वरः 4.2.73.
उपशांत शिवो ज्येष्ठो निवासेश्वर एव च
मुने चतुर्दशैतानि महांत्यायतनानि वै