दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः
प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि
भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि
गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि
गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये
त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम्
कलावतीव गोप्यानि भविष्यंति गिरींद्रजे
कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः 4.2.73.
नामश्रवणतोपीह यल्लिंगानां शुभानने
ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम्
रत्नेशः पंचमं लिंगं षष्ठं चंद्रेश्वराभिधम्
वीरेश्वरं च नवमं कामेशं दशमं विदुः
द्वादशं मणिकर्णीशमविमुक्तं त्रयोदशम्
प्रिये चतुर्दशैतानि श्रियोहेतूनि सुंदरि
देवताः समधिष्ठात्र्यः क्षेत्रस्यास्य परा इमाः
आनंदकानने मुक्त्यै प्रोक्तान्येतानि सुंदरि
प्रतिमासं समारभ्य तिथिं प्रतिपदं शुभाम्
अनाराध्य महादेवमेषु लिंगेषु कुंभज 4.2.73.
तस्मात्सर्वप्रयत्नेन काशीफलमभीप्सुभिः
निर्वाणकारणानीह यदि संति तदा वद
कलिप्रभावाद्गुप्तानि भविष्यंत्येव तानि वै
यस्येश्वरे सदाभक्तिर्यः काशीतत्त्ववित्तमः
येषां नामग्रहेणापि कलिकल्मष संक्षयः
मोक्षद्वारेश्वरश्चैव स्वर्गद्वारेश्वरस्तथा
वृषेशश्चैव चंडीशो नंदिकेशो महेश्वरः
काश्यां चतुर्दशैतानि महालिंगानि सुंदरि
कलिकल्मषबुद्धीनां नाख्येयानि कदाचन
न तस्य पुनरावृत्तिः संसाराध्वनि कर्हिचित् ।। 4.2.73.
एतल्लिंगाभिधा देवि महापद्यपि दुःखहृत्
चतुर्दशापि लिंगानि मत्सान्निध्यकराणि हि