तत्पीठदर्शनादेव विरजा जायते नरः
तीर्थं पिलिपिलाख्यं तद्द्युनद्यंभसि विश्रुतम्
विष्टपत्रितयांतर्ये देवर्षिमनुजोरगाः
तदारभ्य च तत्तीर्थं तच्च लिंगं त्रिलोचनम्
त्रिविष्टपस्य लिंगस्य महिमोक्ताः पिनाकिना
सर्वदृक्सर्वजनक किंचित्पृच्छामि तद्वद
इदं तव प्रियं क्षेत्रं कर्मबीजमहौषधम्
यत्क्षेत्ररजसोप्यग्रे त्रिलोक्यपि तृणायते 4.2.73.
यानीह संति लिंगानि तानि सर्वाण्यसंशयम्
यद्यप्येवं तथापीश विशेषं वक्तुमर्हसि
यत्र देवः सदा तिष्ठेत्संवर्तेऽपि स वल्लभः
येषां स्मरणतोप्यत्र भवेत्पापस्य संक्षयः
येषां समर्चनादेव मध्ये जन्म सकृद्विभो
विधाय मय्यनुक्रोशं कारुण्यामृतसागर
इत्याकर्ण्य महेशानस्तस्या देव्याः सुभाषितम्
यन्नामाकर्णनादेव क्षीयंते पापराशयः
इदं विदंति नैवापि ब्रह्मनारायणादयः
असंख्यातानि लिंगानि पार्वत्यानंदकानने 4.2.73.
नानाधातुमयानीशे दार्षदान्यप्यनेकशः
सिद्धचारणगंधर्व यक्षरक्षोर्चितान्यपि
दिग्गजेर्गिरिभिस्तीर्थेर्ऋक्ष वानर किन्नरैः
प्रतिष्ठितानि यानीह मुक्तिहेतूनि तान्यपि
भग्नान्यपि च कालेन तानि पूज्यानि सुंदरि
गंगाभस्यपि तिष्ठंति षष्टिकोटिमितानिहि
गणनादिवसादवार्ङ्ममभक्तजनैःप्रिये
त्वया तु यानि पृष्टानि यैरिदं क्षेत्रमुत्तमम्
कलावतीव गोप्यानि भविष्यंति गिरींद्रजे
कलिकल्मषपुष्टा ये ये दुष्टा नास्तिकाः शठाः 4.2.73.
नामश्रवणतोपीह यल्लिंगानां शुभानने
ओंकारः प्रथमं लिंगं द्वितीयं च त्रिलोचनम्