स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम्
पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत्
एतत्ते सर्वमाख्यातं केदारस्य महीपते
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी
तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत्
माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम्
स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे
कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम् 7.3.9.
यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप
गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम्
तथा सरस्वती देवी चूतवृक्षाद्विनिर्गता
कथमत्र समायातः केदारश्चात्र कौतुकम्
शृणुष्वावहितो भूत्वा यथा जातं श्रुतं तु वै
गंगाद्यानि च तीर्थानि केदाराद्या दिवौकसः
ब्रह्माणं प्रति राजेन्द्र गताः सर्वे महर्षयः
समुदाये च देवानां सर्वतीर्थानि पार्थिव
ततः कथाप्रसंगेन इन्द्रः प्राह चतुर्मुखम्
इन्द्र उवाच भगवन्पुण्यमाहात्म्यं श्रोतुमिच्छामि सांप्रतम्
अष्टाविंशतिभिः सार्द्धं सहस्रैः कृतमुच्यते ॥ 7.3.10.
लक्षद्वादशभिः प्रोक्तं युगं त्रेताभिसंज्ञितम्
लक्षाण्यष्टौ चतुःषष्टिसहस्रैः परिकीर्तितम्
लक्षैश्चतुर्भिर्विख्यातो द्वात्रिंशद्भिः कलिस्तथा
चतुष्पदः कृते धर्मः शुक्लवर्णो जनार्दनः
क्रियते च तदा धर्मो नाकाले मरणं नृणाम्
कामः क्रोधो भयं लोभो मत्सरश्चाभ्यसूयता
ततस्त्रेतायुगे जातस्त्रिपादो धर्म एव च
तस्मिन्यज्ञाः प्रवर्त्तंते प्राणिनामिष्टदायिनः
तपसा ब्रह्मचर्येण स्नानैर्दानैः पृथग्विधैः
ततस्तु द्वापरं नाम तृतीयं युग मुच्यते 7.3.10.
फलाकांक्षाप्रवृत्तानि जपयज्ञतपांसि च