यांतु क्षिप्रं नयावन्मे पंचेषु शरपीडितम्
इत्याकर्ण्य वचस्तस्य दुर्गस्य दनुजेशितुः
अवधेहि महाराज किमेतत्कर्मदुष्करम्
अस्या आनयने कोयं महायत्नविधिः प्रभो
सहेत त्रिषु लोकेषु त्वत्प्रसादात्कृतोद्यमान् 4.2.71.
सांतःपुरं समानीय क्षिप्नुमस्त्वत्पदाग्रतः
महर्जनस्तपःसत्यलोकास्त्वदधिकारिणः
वैकुंठनायको नित्यं त्वदाज्ञापरिपालकः
अस्माभिरेव संत्यक्तः कैलासाधिपतिः स वै
अर्धांगेनास्मद्भयतो योषिदेका निगूहिता
एकोऽजरद्गवः सोपि नान्यस्मात्परिजीवति
सर्वे विभूतिधवला सर्वेप्येक कपर्द्दिनः
तेषां गणानां किं कुर्मो दरिद्राणां वयं विभो
नागा वराकाश्चास्माकं सायंसायं स्वयं प्रभो
कल्पद्रुमः कामगवी चिंतामणिगणा बहु 4.2.71.
वायुर्व्यजनतां यातस्त्वां सेवेत प्रयत्नतः
वासांसि क्षालयेदग्निश्चंद्रश्छत्रधरः स्वयम्
कस्त्वत्प्रसादं नेक्षेत मर्त्यामर्त्योरगेषु च
पश्य नः पौरुषं राजन्नानयामो बलादिमाम्
संवर्तकालमासाद्य प्लावितुं जगतीमिमाम्
रोमांचिता यच्छ्रवणात्कातरा अप्यकातराः
क्षुब्धा अंबुधयः सर्वे पेतुर्नक्षत्रमालिकाः
ततो भगवती देवी स्वशरीरसमुद्भवाः
ताभिः शक्तिभिरेतेषां बलिनां दितिजन्मनाम्
शस्त्रास्त्राणि महादैत्यैर्यान्युत्सृष्टानि संगरे 4.2.71.
स च बाणस्तया देव्या निज बाणैर्महाजवैः 4.2.71.
तावञ्जगज्जनन्याताः प्रेरिता निज शक्तयः
पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन
आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः
त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी