सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति
धृतायामपि चैकस्यां कस्ते कामो भविष्यति
ततो निवारयैतान्मामादित्सून्सौविदल्लकान्
तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः
इति तेन समादिष्टाः सर्वे वर्पवरा मुने
सा तान्भस्मीचकाराशु हुंकारजनिताग्निना 4.2.71.
क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसंमितान्
सीरपाणिं पाशपाणिं सुरेंद्रदमनं हनुम्
बद्ध्वा पाशैरिमां दुष्टामानयंत्वाशु दानवाः
इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः
गिरींद्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः
तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च
ततस्तां तु विनिर्यांतीमनुजग्मुर्महासुराः
दुर्गोनाम महादैत्यः शतकोटि रथावृतः
कोट्यर्बुदेन सहितो हयानां वातरंहसाम्
उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः 4.2.71.
अथ दृष्ट्वा महादेवी विंध्याचलकृतालयाम्
महाभुजसहस्राढयां महातेजोभिबृंहिताम्
प्रौद्यच्चंद्रसहस्रांशु निर्मार्जित शुभाननाम्
महामाणिक्यनिचय रोचिःखचितविग्रहाम्
हरनेत्राग्निनिर्दग्ध कामजीवातुवीरुधम्
विषमेषु शरैर्भिन्नहृदयो दैत्यपुंगवः
अयि जंभ महाजंभ कुजंभ विकटानन
पिंगाक्ष महिषग्रीव महोग्रात्युग्रविग्रह
जितांतक महाबाहो महावक्त्र महीधर
उग्रास्य दीर्घदशनमेवकेश वृकानन 4.2.71.
शुकतुंड प्रचंडास्य भीमाक्ष क्षुदमानस
दीर्घग्रीव महाजंघ क्रमेलक शिरोधर
धूम्राक्ष धूमनिःश्वास चंडचंडांशुतापन
भवत्स्वेतेषु चान्येषु एतां विंध्यवासिनीम्