अंतःपुरचरा एतां नयंत्वंतःपुरं महत्
अहो महोदयश्चाद्य जातो मम महामते
नृत्यंतु पितरश्चाद्य मोदंतां बांधवाः सुखम्
इति यावत्समायातास्तां नेतुं सौविदल्लकाः
वयं दूत्यः परवशा राजनीतिविदुत्तम
अल्पोपि दूतसंबाधां न विदध्यात्कदाचन 4.2.71.
दूतीषु कोनुरागोयं महाराजाल्पिकास्विह
विजित्य समरे तां तु स्वामिनीं मम दैत्यप
अद्यैव ते महासौख्यं भावितस्याविलोकनात्
संपत्स्यंतेऽद्य ते कामाः सर्वे ये चिरचिंतिताः
सर्वरूपमयी चैव तां भवान्द्रष्टुमर्हति
धृतायामपि चैकस्यां कस्ते कामो भविष्यति
ततो निवारयैतान्मामादित्सून्सौविदल्लकान्
तामेव बह्वमंस्तैकां दूतीं मृत्योरिवासुरः
इति तेन समादिष्टाः सर्वे वर्पवरा मुने
सा तान्भस्मीचकाराशु हुंकारजनिताग्निना 4.2.71.
क्षणेनैव तया दूत्या दैत्त्यास्त्र्ययुतसंमितान्
सीरपाणिं पाशपाणिं सुरेंद्रदमनं हनुम्
बद्ध्वा पाशैरिमां दुष्टामानयंत्वाशु दानवाः
इति दैत्याधिपादेशाद्दुर्धरप्रमुखास्ततः
गिरींद्रगुरुवर्ष्माणः शस्त्रास्त्रोद्यतपाणयः
तेषूड्डीनेषु दैत्येषु शतकोटिमितेषु च
ततस्तां तु विनिर्यांतीमनुजग्मुर्महासुराः
दुर्गोनाम महादैत्यः शतकोटि रथावृतः
कोट्यर्बुदेन सहितो हयानां वातरंहसाम्
उदायुधैर्महाभीमैःकृतत्रिजगतीभयैः 4.2.71.
अथ दृष्ट्वा महादेवी विंध्याचलकृतालयाम्
महाभुजसहस्राढयां महातेजोभिबृंहिताम्
प्रौद्यच्चंद्रसहस्रांशु निर्मार्जित शुभाननाम्
महामाणिक्यनिचय रोचिःखचितविग्रहाम्