स्वयमिंद्रः स्वयं वायुः स्वयं चंद्रः स्वयं यमः
स्वयमीशानरुद्रार्क वसूनां पदमाददे
न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः
विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः
अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः
ज्योतींषि न प्रदीप्यंति तद्भयाकुलितान्यहो 4.2.71.
धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः
सस्यानि तद्भयात्सूते त्वनुप्तापि वसुंधरा
बंदीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा
मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः
न कौलीन्यं न सद्वृत्तं महत्त्वाय प्रकल्पते
विपद्यपि हि ते धन्या न ये दैन्यप्रणोदिताः
पंचत्वमेव हि वरं लोके लाघववर्ज्जितम्
त एव लोके जीवंति पुण्यभाजस्त एव वै
कदाचित्संपदुदयः कदाचिद्विपदुद्गमः
उदयानुदयौ प्राज्ञैर्द्रष्टव्यौ पुष्पवंतयोः 4.2.71.
यस्त्वापदं समासाद्य दैन्यग्रस्तो विपद्यते
आपद्यपि हि ये धीरा इह लोके परत्र च
भ्रष्टराज्याश्च विबुधा महेशं शरणं गताः
माहेश्वरीं समासाद्य भवान्याज्ञां प्रहृष्टवत्
कालरात्रीं समाहूय कांत्या त्रैलोक्यसुंदरीम्
कालरात्री समासाद्य तं दैत्यं दुष्टचेष्टितम्
त्रिलोकीं लभतामिंद्रस्त्वं तु याहि रसातलम्
अथ चेद्गर्वलेशोऽस्ति तदायाहि समाजये
इति वक्तुं महादेव्या महामंगलरूपया
अतो यदुचितं कर्तुं तद्विधेहि महासुर 4.2.71.
इत्याकर्ण्य वचो देव्या महाकाल्याः स दैत्यराट्
त्रैलोक्यमोहिनी ह्येषा प्राप्ता मद्भाग्यगौरवैः
एतदर्थं हि देवर्षि नृपा बंदी कृता मया
अवश्यं यस्य योग्यं यत्तत्तस्येहोपतिष्ठते