क्षेत्रस्य पूर्वदिग्भागं रक्षंती विघ्नसंघतः
पारावारप्रसृमर हस्त न्यस्तारि मोदकाम्
मृणालनालवत्तीव्रं चर्वंतीमस्थि पापिनः
कपालमालाभरणां महाभीषणरूपिणीम्
यथैव चर्ममुंडैषा महारुंडापि तादृशी
क्षेत्ररक्षां प्रकुरुत उभेदेव्यौ महाबले
हयग्रीवेश्वरे तीर्थे लोलार्कादुत्तरे सदा
चर्ममुंडा महारुंडा कथिते ये तु देवते
एतास्तिस्रः प्रयत्नेन पूज्याः क्षेत्रनिवासिभिः 4.2.70.
उपसर्गानमूर्घ्नंति दद्युर्नैःश्रेयसीं श्रियम्
महारुंडा प्रतीच्यां च देवी स्वप्नेश्वरी शुभा
तत्र स्वप्नेश्वरं लिंगं देवीं स्वप्नेश्वरीं तथा
उपोषणपरो धीमान्नारीवा पुरुषोपि वा
अद्यापि प्रत्ययस्तत्र कार्य एष विजानता
अष्टम्यां च चतुर्दश्यां नवम्यां निशि वा दिवा
स्वप्नेश्वर्याश्च वारुण्यां दुर्गादेवी व्यवस्थिता
कथं च काश्यां सा सेव्या समाचक्ष्वेति मामिह
दुर्गा नामाभवद्देव्या यथा सेव्या च साधकैः
दुर्गो नाम मदादैत्यो रुरु दैत्यांगजोभवत्
ततस्तेनाखिला लोका भूर्भुवःस्वर्मुखा अपि
स्वयमिंद्रः स्वयं वायुः स्वयं चंद्रः स्वयं यमः
स्वयमीशानरुद्रार्क वसूनां पदमाददे
न वेदाध्ययनं चक्रुर्ब्राह्मणास्तद्भयादिताः
विध्वस्ता बहुशः साध्व्यस्तैरमार्गकृतास्पदैः
अभोक्षिषुर्दुराचाराः क्रूरकर्मपरिग्रहाः
ज्योतींषि न प्रदीप्यंति तद्भयाकुलितान्यहो 4.2.71.
धर्मक्रियाविलुप्ताश्च प्रवृत्ताः सुकृतेतराः
सस्यानि तद्भयात्सूते त्वनुप्तापि वसुंधरा
बंदीकृताः सुरर्षीणां पत्न्यस्तेनातिदर्पिणा
मर्त्या अमर्त्यान्स्वगृहं प्राप्तानपि भयार्दिताः