तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः
तत्र नागवती वेश्या शिवरात्रिपरायणा
तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर
तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी
यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम्
कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः
सकामो लभते कामान्देवैरपि सुदुर्ल्लभान् एतेषां मूल्यमादाय प्राणाधारं समाचर
ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने
उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि 7.3.9.
इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम्
श्रद्धया च सभार्येण जागरं च शिवाग्रतः
पुराणश्रवणं जातं तत्र पार्थिवसत्तम
केदारस्याग्रतो भक्त्या रात्रौ जागरणं तथा
ततः कालांतरेणैव कालधर्मं गतो भवान्
ततो जाता महाराज दशार्णाधिपतेः सुता
अजपाल इति ख्यातो नाम्ना च धरणीतले
एतस्मात्कारणाज्जाता भार्येयं प्राणसंमता
तस्य देवस्य माहात्म्यात्केदारस्य महीपतेः 7.3.9.
प्राप्तं त्वया महाराज केदारस्य प्रसादतः
गमनाय मतिं चक्रे केदारं प्रति भूमिपः
स गत्वा पर्वते रम्ये पूजयित्वा च तं विभुम्
पुत्रं राज्ये च संस्थाप्य ततोऽर्बुदमथागमत्
एतत्ते सर्वमाख्यातं केदारस्य महीपते
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी
तस्यां तु सर्वथा राजन्यात्रां तस्य समाचरेत्
माघकृष्णचतुर्दश्यां यः कुर्यात्तत्र जागरम्
स्नात्वा गंगासरस्वत्योः संगमे सर्वकामदे
कुण्डे केदारसंज्ञे यः प्रपिबेद्विमलं जलम् 7.3.9.
यश्चैतच्छृणुयान्नित्यं भक्त्या परमया नृप
गंगा तस्माद्विनिष्क्रान्ता प्रविष्टा पूर्वसागरम्