घनटंककरा देवी भक्तबंधनभेदिनी
देवी पशुऽपतेः पश्चादमृतेश्वर सन्निधौ
पूजयित्वा नरो भक्त्या देवताममृतेश्वरीम्
धारयंतीं महामायाममृतस्य कमंडलुम्
सिद्धलक्ष्मी जगद्धात्री प्रतीच्याममृतेश्वरात्
प्रासादं सिद्धलक्ष्म्याश्च विलोक्य कमलाकृतिम्
ततः कुब्जा जगन्माता नलकूवरलिंगतः
उपसर्गा न शेषांश्च कुब्जा हरति पूजिता
कुब्जांबरेश्वरं लिंगं नलकूबर पश्चिमे 4.2.70.
त्रिलोकसुंदरी सिद्धिं दद्यात्त्रैलोक्यसुंदरीम्
दीप्ता नाम महाशक्तिः सांबादित्यसमीपगा
श्रीकंठ सन्निधौ देवी महालक्ष्मीर्जगज्जनिः
पितॄन्संतर्प्य विधिवत्तीर्थे श्रीकुंडसंज्ञिते
लक्ष्मीक्षेत्रं महापीठं साधकस्यैव सिद्धिदम्
संति पीठन्यनेकानि काश्यां सिद्धिकराण्यपि
महालक्ष्म्यष्टमीं प्राप्य तत्र यात्रा कृतां नृणाम्
उत्तरे तु महालक्ष्म्या हयकंठीकुठारधृक्
कौर्मी शक्तिर्महालक्ष्मी दक्षिणे पाशपाणिका
सा पूजितास्तुता मर्त्यैः क्षेत्रसिद्धिं प्रयच्छति 4.2.70.
खादंती विघ्नसंघातं शिखी शब्दं करोति च
भीमचंड्युत्तरद्वारं सदा रक्षेदतंद्रिता
भीमचंडीं नरो दृष्ट्वा भीमकुंडे कृतोदकः
छागवक्त्रेश्वरी देवी दक्षिणे वृषभध्वजात्
तस्या देव्याः प्रसादेन काशीवासः प्रलभ्यते
तालजंघेश्वरी देवी तालवृक्षकृतायुधा
संगमेश्वर लिंगस्य दक्षिणे विकटाननाम्
उद्दालकेश्वराल्लिंगात्तीर्थं उद्दालकाभिधे
प्रणता यमदंष्ट्रायैस्तीर्थेचोद्दालकाभिधे
दारुकेश्वर तीर्थे तु दारुकेशसमीपतः 4.2.70.
कपालकर्त्रीं हस्तां च ब्रह्मांडकवलप्रियाम्