मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता
शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः
यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः
यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता
अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ
शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी
वज्रहस्ता तथा चैंद्री गजराज रथास्थिता
स्कंदेश्वर समीपे तु कौमारी बर्हियानगा
महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः 4.2.70.
निर्वाणनरसिंहस्य समीपे मोक्षकांक्षिभिः
हंसयानवती ब्राह्मी ब्रह्मेशात्पश्चिमे स्थिता
ब्रह्मविद्या प्रबोधार्थं काश्यां पूज्या दिनेदिने
शार्ङ्गचापविनिर्मुक्त महेषुभिरितस्ततः
प्रतीच्यांगोपिगोविंदाद्भ्राम्यच्चक्रोच्च तर्जनीम्
ततो गौरीं विरूपाक्ष देवयान्या उदग्दिशि
शैलेश्वरी समभ्यर्च्या शैलेश्वर समीपगा
चित्रकूपे नरः स्नात्वा विचित्रफलदे नृणाम्
बहुपातकयुक्तोपि त्यक्तधर्मपथोपि वा
योषिद्वा पुरुषो वापि चित्रघंटां न योर्चयेत् 4.2.70.
चैत्रशुक्लतृतीयायां कार्या यात्रा प्रयत्नतः
महापूजोपकरणैश्चित्रघंटां समर्च्य च
चित्रांगदेश्वरप्राच्यां चित्रग्रीवां प्रणम्य च
भद्रकालीं नरो दृष्ट्वा नाभद्रं पश्यति क्वचित्
हरसिद्धिं प्रयत्नेन पूजयित्वा नरोत्तमः
विधिं संपूज्य विधिवद्विविधैरुपहारकैः
प्रयागतीर्थे सुस्नातो जनो निगडभंजनीम्
भौमवारे सदा पूज्या देवीनिगडभंजनी
संसारबंधविच्छित्तिमपि यच्छति सार्चिता
दूरस्थोपि हि यो बंधुः सोपि क्षिप्रं समेष्यति 4.2.70.
किंचिन्नियममालंब्य यदि सा परिषेविता