अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः
इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः
स्कंद उवाच वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा
स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च
भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः
प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः
विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः
तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः
वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः 4.2.70.
मणिमुक्ताद्यलंकारैर्विचित्रोल्लोच चामरैः
मोक्षलक्ष्मी समृद्ध्यर्थं यत्रकुत्र निवासिभिः
तदानंत्याय जायंत मुने लोकद्वयेपि हि
मोक्षस्तस्य परीपाको नात्र कार्या विचाणा
प्राप्यतेत्र कुमारीभिर्गुणशीलाद्यलंकृतः
असौभाग्यवतीभिश्च सौभाग्यं महदाप्यते
सीमंतिनीभिः पुंभिर्वा परं निर्वाणमिच्छुभिः
ततोन्यल्ललितातीर्थं गंगाकेशवसन्निधौ
सा च पूज्या प्रयत्नेन सर्वसंपत्समृद्धये
इषे कृष्णद्वितीयायां ललितां परिपूज्य वै 4.2.70.
स्नात्वा च ललिता तीर्थे ललितां प्रणिपत्य वै
मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता
शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः
यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः
यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता
अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ
शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी
वज्रहस्ता तथा चैंद्री गजराज रथास्थिता
स्कंदेश्वर समीपे तु कौमारी बर्हियानगा
महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः 4.2.70.
निर्वाणनरसिंहस्य समीपे मोक्षकांक्षिभिः