आगादिह महादेवो वृषेशो वृषभध्वजात्
इहागतं तु केदारादीशानेश्वर संज्ञितम्
ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि
भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा
पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात्
उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः
उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात्
वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः
भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः 4.2.69.
नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह 4.2.69.
नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम् 4.2.69.
हेमकूटाद्विरूपाक्षं लिंगमत्राविरास ह 4.2.69.
मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः 4.2.69.
शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह 4.2.69.
नैर्कत्यां दिशि तल्लिंगं निर्ऋतेश्वरसंज्ञकम् 4.2.69.
एतान्यायतनानीश आनिनाय महांति च 4.2.69.
श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुंभज
शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च 4.2.69.
श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम्
अगस्त्य उवाच यथा व्यापारिता देव्यो देवदेवनिदेशतः
अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः
इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः
स्कंद उवाच वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा
स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च
भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः
प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः
विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः
तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः
वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः 4.2.70.
मणिमुक्ताद्यलंकारैर्विचित्रोल्लोच चामरैः