तमागतमभिप्रेत्य रघुरादरतस्तदा सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया
पूजासंभारमालोक्य तादृशं तं मुनीश्वरः उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः
गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम्
क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहितांजलिः
यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः ।। 2.8.4.
प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया
तमायांतं कुबेरोऽथ विज्ञाप्य वचनोदितैः
स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा
तस्मै समर्पयामास तां रघुः खनिमुत्तमाम्
राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः
इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा
भूयादत्र परं तीर्थं सर्वपापहरं सदा
वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता
प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः
राजा स कृतकृत्योऽथ शेषं संगृह्य तद्धनम् 2.8.4.
एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात्
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम्
दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः
निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती
आगत्य च क्षुधाक्रांत उच्चैः प्रोवाच स द्विजः पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज
इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः
तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन्
क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम्
इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा
विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः 2.8.5.
तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः
पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः
तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः
स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत