एवं संपूजितस्तेन भक्त्या परमया नृप राजर्षीणां कथाश्चक्रे देवर्षीणां तथैव च
ततः कथावसाने तु कस्मिंश्चिन्नृपसत्तम
त्वं वेत्सि सकलं ब्रह्मंस्तपश्चर्याप्रभावतः
कौतुकं हृदि मे जातं वर्त्तते मुनिपुंगव
कथयिष्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम्
निष्कण्टकं सदा क्षेमं सर्वकामसमन्वितम्
न दीनो न च दुःखार्त्तो व्याधिग्रस्तो न कोऽपि च
नारीयं मम साध्वी च प्राणेभ्योऽपि गरीयसी अनया चिंतितं ब्रह्मन्सर्वं विस्तरतो वद
किं दानस्य प्रभावेन व्रतयागस्य वा मुने 7.3.9.
जन्मान्तरकृतं पुण्यं परं कौतूहलं हि मे
वसिष्ठ उवाच शृणु सर्वं महीपाल विस्तरेण च कथ्यते
अन्यदेहांतरे राजञ्छूद्रजातिसमुद्भवः
केनचित्त्वथ कालेन दुर्भिक्षे समुपस्थिते
ततस्त्वं भार्यया सार्द्धमन्यदेशांतरे गतः
त्वया दृष्टं मनोहारि शुभं पंकजकाननम्
मनसा चिंतितं ह्येतत्पद्मान्यादाय करोम्यहम्
ततः पद्मानि भूरीणि गृहीत्वा भार्यया सह
न केऽपि प्रति गृह्णंति लोका दुर्भिक्षपीडिताः
ततो दिनावसाने तु गुहामेकां समाश्रितः 7.3.9.
एतस्मिन्नेव काले तु कर्णयोस्ते समागतः
तं श्रुत्वा सहसोत्थाय ज्ञात्वा जागरणं ततः
तत्र नागवती वेश्या शिवरात्रिपरायणा
तस्याः पार्श्वे स्थिता दासी त्वया पृष्टा नरेश्वर
तयोक्तं शिवरात्र्यां वै वेश्येयं वरवर्णिनी
यः श्रद्धाभक्तिसंयुक्तः कुरुते रात्रिजागरम्
कृत्वोपवासं पद्मैर्य्यः पूजयेत्त्र्यंबकं नरः
सकामो लभते कामान्देवैरपि सुदुर्ल्लभान् एतेषां मूल्यमादाय प्राणाधारं समाचर
ततस्त्वं भार्यया चोक्तो गृह्यमाणे च कांचने
उपवासो बलाज्जातो ह्यन्नाभावाद्वयोरपि 7.3.9.
इदं त्वयाऽद्य कर्त्तव्यं त्याज्यमस्यास्तु कांचनम्