सुखसंतानपीयूष ह्रदे परिनिमज्य वै
किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः 4.2.67.
अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया
वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम्
काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने
दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम्
प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम्
स कथं प्राप्यते भद्रे क उपायो विधीयताम्
इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम्
इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः
ततस्तास्त्वरिताः सख्यः परितापोपहारकान्
व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः 4.2.67.
तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह
श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि
ये व्याधयोपि दुःसाध्या बहिरंतः शरीरगाः
सेवितं येन सततं भगवच्चरणोदकम्
आधिभौतिकतापं च तापं वाप्याधिदैविकम्
व्यपेतसंज्वरा चाथ गंधर्वतनया मुने
यूयं कुंठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा
मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः
शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख
चित्रगे चित्रलेखे त्वं पातालतलशायिनः 4.2.67.
अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च
निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान्
सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा
ततो मध्यमलोकस्थान्मुनिराजकुमारकान्
अथ रत्नावली बाला कर्णाभ्यर्णविलोचना
दितिजान्दनुजान्वीक्ष्य सा गंधर्वी कुमारकान्
सुधाकर करस्पृष्टाप्यतिदूनांगयष्टिका
भोगिनस्तान्विलोक्यापि चित्रंचित्रगतानथ