इति लिंगांबुधेर्जातां परिपीय वचःसुधाम्
गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् 4.2.67.
ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता
यद्यायाति स ते रात्रावद्य कौमारहारकः
गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः
यातास्वस्मासु हृष्टासु भवती शयगौरवात्
अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः
सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः
भवत्या अपि चास्माकमेक एव हि चोद्यमः
लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः
इति संव्याहरंतीनामनंतोध्वाऽतितुच्छवत्
अथ प्रातः समुत्थाय पुनरेकत्र संगताः ।। 4.2.67.
तूष्णीं प्राप्याथ काशीं सा स्नात्वा मंदाकिनीजले
निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा
भवतीषु स्मरंत्येव तद्रत्नेशवचोऽमृतम्
सविशेषांगसंस्काराऽविशं संवेशमंदिरम्
बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात्
तंद्री तदंगसंस्पर्शौ मम बोधापहारकौ
न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः
दोः कंकणेन रिपुणा क्वणितं तावदुत्कटम्
सुखसंतानपीयूष ह्रदे परिनिमज्य वै
किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः 4.2.67.
अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया
वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम्
काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने
दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम्
प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम्
स कथं प्राप्यते भद्रे क उपायो विधीयताम्
इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम्
इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः