प्रमादेनापि यैर्गौरि लिंगं रत्नेशमर्चितम्
त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु 4.2.67.
पूजयिष्यंति ये लिंगं रत्नेशं कामवर्जिताः
रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम्
लिंगे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते
पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा
ननर्त जागरं प्राप्य जगौ गीतं च पेशलम्
तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी
कालधर्मवशंयाता तत्र सा वरनर्तकी
संगीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः
रम्या रत्नावली नाम रूपलावण्यशालिनी
पितुरानंदकृन्नित्यं वसुभूतेर्घटोद्भव 4.2.67.
मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम्
तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता
प्राप्य रत्नावली गौरि सा जन्मांतरवासनाम्
रत्नभूतस्य लिंगस्य काश्यां रत्नेश्वरस्य वै
इत्थं नियमवत्यासीत्सा गंधर्वसुतोत्तमा
एकदाराध्य रत्नेशं ममैतल्लिंगमुत्तमम्
सख्यः प्रदक्षिणीकर्तुं लिंगं तिस्रोऽप्युमे गताः
यस्त्वया रंस्यते रात्रावद्य गंधर्वकन्यके
इति लिंगांबुधेर्जातां परिपीय वचःसुधाम्
गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् 4.2.67.
ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता
यद्यायाति स ते रात्रावद्य कौमारहारकः
गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः
यातास्वस्मासु हृष्टासु भवती शयगौरवात्
अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः
सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः
भवत्या अपि चास्माकमेक एव हि चोद्यमः
लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः