उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् 4.2.66.
श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः
रत्नभूतं महालिंगं यत्काश्यां परिवर्ण्यते
कोस्य लिंगस्य महिमा केनैतच्च प्रतिष्ठितम्
रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने
श्रुतं नामापि लिंगस्य यस्य जन्मत्रयार्जितम्
शैलराजेन रत्नानि यानि पुंजीकृतान्यहो
सर्वरत्नमयं लिंगं जातं तत्सुकृतात्मनः
तल्लिंगदर्शनादेव ज्ञानरत्नमवाप्यते
यत्र रत्नमयं लिंगमाविर्भूतं स्वयं मुने
तत्र दृष्ट्वा शुभं लिंगं सर्वरत्नसमुद्भवम्
देवदेव जगन्नाथ सर्वभक्ताभयप्रद 4.2.67.
ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम्
यस्य संवीक्षणादेव मनोमेतीव हृष्टवत्
स्वरूपमेतल्लिंगस्य सर्वतेजोनिधेः परम्
तव पित्रा हिमवता गिरिराजेन भामिनि
अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा
तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते
लिंगं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम्
सर्वेषामिह लिंगानां रत्नभूतमिदं परम्
अनेनैव सुवर्णेन पित्रा राशीकृतेन च
लिंगप्रासादकरणात्खंडस्फुटित संस्कृतेः 4.2.67.
तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ
गणैश्च कांचनमयो नानाकौतुकचित्रितः
देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम्
पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम्
आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात्
गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिंतितप्रदम्
यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः
यानि ब्रह्मांडमध्येत्र संति लिंगानि पार्वति