सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः 4.2.65.
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत्
अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन्
तपोधनाः समाजग्मुर्निशि शब्दानुसारतः
तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः
अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा
इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै
एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि 4.2.65.
इत्युक्त्वा देवदेवशस्तस्मिँल्लिंगे लयं ययौ
ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम्
व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किंकराः
पराशरेश्वरादीनां लिंगानामिह संभवम्
कंदुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा
उटजेश्वर लिंगं तु व्याघ्रेशात्पश्चिमे स्थितम्
तानि ते कथयिष्यामि शृणु वातापितापन
ज्येष्ठेशाद्दक्षिणे भागे लिंगमप्सरसां शुभम्
तत्कूपजलसुस्नातो विलोक्याप्सरसेश्वरम्
तत्रैव कुक्कुटेशाख्यं लिंगं वापीसमीपगम्
पितामहेश्वरं लिंगं ज्येष्ठवापीतटे शुभम्
पितामहेशान्नैर्ऋत्यां पूजनीयं प्रयत्नतः
दिशि पुण्यजनाख्यायां लिंगाज्ज्येष्ठेश्वरान्मुने
तत्र वासुकिकुंडे च स्नानदानादिकाः क्रियाः
यः स्नातो नागपंचम्यां कुंडे वासुकिसंज्ञिते
कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र वै 4.2.66.
तत्कुण्डात्पश्चिमे भागे लिंगं वै तक्षकेश्वरम्
मुनेस्तस्योत्तरे भागे कुण्डं तक्षकसंज्ञितम्
तत्कुण्डादुत्तरे भागे क्षेत्रं क्षेमकरः सदा