कृपयाऽस्य प्रभावाच्च जातो जातिस्मरस्त्वहम्
न जाने किं फलं मेऽद्य देवस्यास्य प्रसादतः
पुलस्त्य उवाच वेणुवाक्यं ततः श्रुत्वा मुनयः शंसितव्रताः
ततः प्रदक्षिण पराः सर्वे तत्र महर्षयः
सोऽपि राजा महाभागो वेणुः शंभोः प्रसादतः
त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः
तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः
भद्रकर्णगणोनाम पुरासीच्छिववल्लभः
केनचित्त्वथ कालेन संग्रामे दानवैः सह
नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते
बलवान्नमुचिर्नाम दानवो बलवत्तरः
भद्रकर्णस्तु तं दृष्ट्वा दानवं तदनंतरम्
छित्त्वाऽसिमसिना तस्य चर्म चापि महाबलः
अथासौ निहतस्तेन प्रविश्य विपुलं तमः वधं प्राप्तस्तु दैत्योऽसौ नत्वा हरमसौ स्थितः 7.3.8.
वरं वरय भद्रं ते नित्यं यो हृदये स्थितः
अत्रास्तु तव सांनिध्यं ह्रदेऽस्मिंश्च स्थिरो भव
सांनिध्यं च विशेषेण ह्रदे लिंगे भविष्यति
भद्रकर्णह्रदे स्नात्वा त्रिनेत्रं यः समाहितः
तस्मात्सर्वत्र यत्नेन स्नानं तत्र समाचरेत्
केदारमिति विख्यातं सर्वपापहरं नृणाम्
यत्र मन्दाकिनी पुण्या सरस्वत्या समागता
शृणु राजन्यथावृत्तमितिहास पुरातनम्
अजपालो नृपश्रेष्ठः सूर्यवंशसमुद्भवः
न हस्तिनो न पादाता न चाश्वास्तस्य भूपतेः
न गृह्णाति करं राजन्प्रजाभ्योथाधिकं नृप
जातापराधो भूपृष्ठे जायते चेत्कथंचन
एवमस्य नरेन्द्रस्य वर्त्तमानस्य भूतले
कामं वर्षति पर्जन्यः सस्यानि रसवंति च
केनचित्त्वथ कालेन वसिष्ठो भगवान्मुनिः 7.3.9.
तं दृष्ट्वा पूजयामास शास्त्रदृष्टेन वर्त्मना