यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः 4.2.65.
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम्
यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः
भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत्
यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम्
यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः 4.2.65.
अदृश्यरूपी मायावी देवानामप्यगोचरः
प्रवेशमुटजानां च निर्गमं च विलोकयन्
निःशब्दमेव नयति नत्यजेदपि कीकसम्
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे
स च दुंदुभिनिर्ह्राद दैत्येंद्रो बलदर्पितः
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे
अथ सर्वगतः शंभुर्ज्ञात्वा तस्याशयं हरः
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः
रुद्रमायांतमालोक्य तद्भक्तार्चित लिंगतः
सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः 4.2.65.
पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत्
अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन्
तपोधनाः समाजग्मुर्निशि शब्दानुसारतः
तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः
अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा
इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै
एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः