विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ 4.2.65.
धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम्
सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात्
तेनैव कंदुकेनाथ युगपन्निजघान तौ
महाबलौ महादेव्या कंदुकेन समाहतौ
वृंतादिव फले पक्वे तालादनिललोलिते
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ
कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा
कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः
कंदुकेश्वर भक्तानां मानवानां निरेनसाम्
मृडानी तस्य लिंगस्य पूजां कुर्यात्सदैव हि 4.2.65.
कंदुकेशं महालिंगं काश्यां यैर्न समर्चितम्
द्रष्टव्यं च प्रयत्नेन तल्लिंगं कंदुकेश्वरम्
कंदुकेश्वर नामापि श्रुत्वा वृजिनसंततिः
यद्वृत्तांतमभूद्विप्र परमाश्चर्यकृद्ध्रुवम्
दंडखाते महातीर्थे देवर्षिपितृतृप्तिदे
दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः
किं बलाश्च किमाहाराः किमाधारा हि देवताः
अवश्यमग्रजन्मानो हेतवोत्र विचारतः
यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः 4.2.65.
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम्
यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके
द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः
भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत्
यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च
इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम्