भारद्वाजेश्वरं लिंगं लिंगं माद्रीश्वरं वरम्
अरुणि स्थापितं लिंगं तत्रैव कलशोद्भव 4.2.65.
लिंगं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम्
कण्वेश्वरं शुभं लिंगं लिंगं कात्यायनेश्वरम्
हारीतेश्वरसंज्ञं च लिंगं वै गालवेश्वरम्
अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च
सक्तुप्रस्थेश्वरं लिंगं कणादेशं तथैव च
वाभ्रवेयेश्वरं लिंगं शिलावृत्तीश्वरं तथा
कलिंदमेश्वरं लिंगं लिंगमक्रोधनेश्वरम्
कंठेश्वरं कहोलेशं लिंगं तुंबुरुपूजितम्
जातूकर्णेश्वरं लिंगं जंबूकेश्वरमेव च
एवमादीनि लिंगानि अयुतार्धानि कुंभज 4.2.65.
न जातु जायते जंतोः कलुषस्य समुद्भवः
तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम्
स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः
उदंच न्न्यंचदंगानां लाघवं परितन्वती
भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका
स्फुटच्चोलांशुकपथनिर्यदंगप्रभावृता
कंदुकानुग सदृष्टि नर्तित भ्रूचलतांचला
अंतरिक्षचराभ्यां च दितिजाभ्यां मनोहरा
विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः
देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ 4.2.65.
धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम्
सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात्
तेनैव कंदुकेनाथ युगपन्निजघान तौ
महाबलौ महादेव्या कंदुकेन समाहतौ
वृंतादिव फले पक्वे तालादनिललोलिते
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ
कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा
कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः