ततो रुद्रपिशाचास्ते भैरवानुचराः सदा
आहारं रुधिरोन्मिश्रं ते लभंते कदाचन
श्मशानस्तंभमभितो नीयंते कंठपाशिताः
अथ संक्षीणपापास्ते कालभैरवदर्शनात्
तस्मान्न कामयेतात्र वाङ्मनःकर्मणाप्यघह(?)म्
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी
अनाशनं यः कुरुते मद्भक्त इह सुव्रतः
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम्
नान्यत्पश्यामि जंतूनां मुक्त्वा वाराणसीं पुरीम् 4.2.64.
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम्
जन्मांतरसहस्रेषु युंजन्योगी यदाप्नुयात्
तिर्यग्योनिगताः सत्त्वा ये विमुक्तकृतालयाः
अविमुक्तं न सेवंते ये मूढास्तमसावृताः
अविमुक्तं समासाद्य यो लिंगं स्थापयेत्सुधीः
ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम्
ब्रह्महत्यां नरः कृत्वा पश्चात्संयतमानसः
स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः
अत्रोत्क्रमणकालेहं स्वयमेव द्विजोत्तमाः
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः 4.2.64.
महादानेन चान्यत्र यत्फलं लभ्यते नरैः 4.2.64.
तेपि साक्षाद्विरूपाक्षं प्रत्यक्षीकृत्य वाडवाः 4.2.64.
श्रद्धालुः पातकैर्मुक्तः शिवलोके महीयते
तानि पंचसहस्राणि मुनीनां सिद्धिदान्यलम्
पराशरेश्वरं लिंगं ज्येष्ठेशादुत्तरे महत्
तत्रैव सिद्धिदं लिंगं मांडव्येश्वरसंज्ञितम्
लिंगं च शंकरेशाख्यं तत्रैव शुभदं सदा
जाबालीश्वर संज्ञं च लिंगं तत्रातिसिद्धिदम्
सुमंतु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः
भैरेवी भीषणा नाम तत्र भीषणरूपिणी
तत्रोपजंघने लिंगं कर्मबंधविमोक्षणम्