काथीं संकाक्षमाणानां पुरुषार्थचतुष्टयम्
आनंदकानने ह्यत्र ज्वलद्दावानलोस्म्यहम्
वस्तव्यं सततं काश्यां यष्टव्योहं प्रयत्नतः ।। जेतव्यौ कलिकालौ च रंतव्या मुक्तिरंगना
प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिसेवते
धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः
दातव्यो वो वरः कोत्र व्रियतां मे यथारुचि
इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम्
ब्राह्मणा ऊचुः उमापते महेशान सर्वज्ञ वर एष नः
वचनाद्ब्राह्मणानां तु शापो मा प्रभवत्विह
तव पादाबुंजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु नः 4.2.64.
किमन्येन वरेणेश देय एष वरो हि नः
तव प्रतिनिधी कृत्यास्माभिस्त्वद्भक्तिभावितैः
श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना
पुनः प्रोवाच देवेशो निशामयत भो द्विजाः
सेव्योत्तरवहा नित्यं लिंगमर्च्यं प्रयत्नतः
इदमेव रहस्यं च कथितं क्षेत्रवासिनाम्
मनसापि न कर्तव्यमेनोत्र विजिगीषुणा
अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति
अंतर्गेहे कृतं पापं पैशाच्यनरकावहम्
न कल्पकोटिभिः काश्यां कृतं कर्म प्रमृज्यते 4.2.64.७०. योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम्
पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम्
(संप्रांते) दुष्कृतानि विधायेह बहिः पंचत्वमागताः
यामाख्या मे गणाः संति घोरा विकृतमूर्त्तयः
नयंत्यनूपप्रायां च ततः प्राचीं दुरासदाम्
जलौकाभिः सपक्षाभिर्दंदशूकैर्जलोद्भवैः
ततो यामैर्हिमर्तौ ते नीयंतेऽद्रौ हिमालये
मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते
क्लेशितास्ते गणैरुग्रैर्यातनाभिः समंततः
निवेदयंति ते यामाः कालराजांतिके ततः 4.2.64.
विवस्त्रान्क्षुत्तृषार्तांश्च लग्नपृष्ठोदरत्वचः