काशीनाथमनुप्राप्ताः परमानंददायिनम्
तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे
असीसंभेदमारभ्य गंगातीरस्थिता द्विजाः
अष्टादशसहस्राणि तथा पंचशतान्यपि
सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः
स्तुतो मंगलसूक्तैश्च प्रणतश्च पुनःपुनः
ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसंपुटाः
विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः
सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः
येषां हृदि सदैवास्ते काशीत्वाशीविषां गद 4.2.64.
गर्भरक्षामणिर्मंत्रः काशीवर्णद्वयात्मकः
सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम्
श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम्
काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम्
प्रसंगतोपि यन्नेत्रपथमानंदकाननम्
गच्छता तिष्ठता वापि स्वपता जाग्रताथवा
येन बीजाक्षरयुगं काशीति हृदि धारितम्
काशी काशीति काशीति जपतो यस्य संस्थितिः
क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव
ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् 4.2.64.
प्रोवाच च प्रसन्नात्मा धन्या यूयं द्विजर्षभाः
जाने सत्त्वमया जाताः क्षेत्रस्यास्य निषेवणात्
वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम्
यैश्च काशीस्थितो जंतुरल्पकोपि विरोधितः
वाराणस्याः स्तुतिमपि यो निशम्यानुमोदते
निवसंति हि ये मर्त्या अस्मिन्नानंदकानने
निवसंति मम क्षेत्रे मम भक्तिं प्रकुर्वते
निवसंति मम क्षेत्रे मम भक्तिं न कुर्वते
काशी निर्वाणनगरी येषां चित्ते प्रकाशते
मोक्षलक्ष्मीरियं काशी न येभ्यः परिरोचते 4.2.64.