हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम्
मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि
ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम्
ततः पृथूदकात्कुंडात्पृथुना परिखानितात्
तथैवाप्सरसः कुंडान्मेनकाख्याच्छतद्वयम्
तथैरावतकुंडाच्च ब्राह्मणास्त्रिशतानि च
वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया
लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च
पितृकुंडाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट्
ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु 4.2.64.
काशीनाथमनुप्राप्ताः परमानंददायिनम्
तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे
असीसंभेदमारभ्य गंगातीरस्थिता द्विजाः
अष्टादशसहस्राणि तथा पंचशतान्यपि
सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः
स्तुतो मंगलसूक्तैश्च प्रणतश्च पुनःपुनः
ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसंपुटाः
विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः
सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः
येषां हृदि सदैवास्ते काशीत्वाशीविषां गद 4.2.64.
गर्भरक्षामणिर्मंत्रः काशीवर्णद्वयात्मकः
सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम्
श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम्
काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम्
प्रसंगतोपि यन्नेत्रपथमानंदकाननम्
गच्छता तिष्ठता वापि स्वपता जाग्रताथवा
येन बीजाक्षरयुगं काशीति हृदि धारितम्
काशी काशीति काशीति जपतो यस्य संस्थितिः
क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव
ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् 4.2.64.