जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम्
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः
करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन
ददे शृणु महाभाग जैगीषव्यापरं वरम्
महापापौघशमनं महापुण्यप्रवर्धनम्
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः 4.2.63.
निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते
दृष्ट्वा भूदेवताः शंभुं किमाचख्युः षडानन
ज्येष्ठस्थाने महापुण्ये देवदेवस्य वल्लभे
मंदराद्रिं यदा देवो गतवान्ब्रह्मगौरवात्
तदा निराश्रया विप्राः क्षेत्रसंन्यासिनोनघाः
खातंखातं च दंडाग्रैर्भूमिं कंदादिवृत्तयः
तत्तीर्थं परितः स्थाप्य महालिंगान्यनेकशः
विभूतिधारिणो नित्यं नित्यरुद्राक्षधारिणः
ते श्रुत्वा देवदेवस्य पुनरागमनं मुने
द्विजाः पंचसहस्राणि चरतो विपुलं तपः
तीर्थान्मंदाकिनी नाम्नो द्विजाः पाशुपतव्रताः 4.2.64.
हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम्
मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि
ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम्
ततः पृथूदकात्कुंडात्पृथुना परिखानितात्
तथैवाप्सरसः कुंडान्मेनकाख्याच्छतद्वयम्
तथैरावतकुंडाच्च ब्राह्मणास्त्रिशतानि च
वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया
लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च
पितृकुंडाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट्
ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु 4.2.64.