यस्तु पूजयते भक्त्या दक्षिणां दिशमास्थितः
पंचामृतेन यस्तत्र तर्पणं कुरु ते नरः
प्रदक्षिणांते यस्तस्य प्रणामं कुरुते नरः
तत्राश्चर्यमभूत्पूर्वं तत्त्वं शृणु महामते
तत्र पूर्वं शुको नीडं वृक्षे चैवाकरोद्द्विजः
न च भक्त्या महाराज पक्षियोनिसमुद्भवः
संजातः पार्थिवे वंशे राजा वेणुरिति स्मृतः
स तं स्मृत्वा प्रभावं हि प्रदक्षिणासमुद्भवम् 7.3.7.
नक्तं दिनं महाराज नान्यत्किंचित्करोति सः
न पुष्पे धूपदाने च प्रदक्षिणापरः सदा
नारदः शौनकश्चैव हारीतो देवलस्तथा
एते चान्ये च बहवो देवव्रतपरायणाः
अन्ये च विविधां पूजां जपमन्ये समाहिताः
बलिमन्ये प्रयच्छंति स्तुतिं कुर्वंति चापरे
परं कौतुकमापन्ना वाक्यमेतदथाब्रुवन्
ऋषय ऊचुः कस्मात्त्वं पार्थिवश्रेष्ठ प्रदक्षिणापरः सदा
न ददासि जलं लिंगे प्रभूतं सुमनोहरम्
समर्थोऽसि तथान्येषां दानानां त्वं महीपते 7.3.7.
पूर्वदेहांतरे वृत्तं सर्वं सत्यं विशेषतः
प्रासादेऽस्मिन्पुरा पक्षी शुकोऽहं स्थितवांस्तदा
कृपयाऽस्य प्रभावाच्च जातो जातिस्मरस्त्वहम्
न जाने किं फलं मेऽद्य देवस्यास्य प्रसादतः
पुलस्त्य उवाच वेणुवाक्यं ततः श्रुत्वा मुनयः शंसितव्रताः
ततः प्रदक्षिण पराः सर्वे तत्र महर्षयः
सोऽपि राजा महाभागो वेणुः शंभोः प्रसादतः
त्रिनेत्राभाः शिला यत्र दृश्यंतेऽद्यापि भूरिशः
तस्यैव पश्चिमे भागे लिंगमस्ति पिनाकिनः
भद्रकर्णगणोनाम पुरासीच्छिववल्लभः
केनचित्त्वथ कालेन संग्रामे दानवैः सह
नष्टे स्कंदे हते सैन्ये वीरभद्रे पराजिते