वाराणसीं समासाद्य यदहं नागतः पुनः
प्रसंगतोपि कः काशीं प्राप्य चंद्रविभूषण
स्वरूपतो ब्राह्मणत्वादपाकर्तुं न शक्यते
विभोरपि समाज्ञेयं धर्मवर्त्मानुसारिणि
कस्तादृशि महीजानौ पुण्यवर्त्मन्यतंद्रिते
निशम्येति वचस्तुष्टः श्रीकंठोति विशुद्धधीः
वाजिमेधाध्वराणां च ततोपि दशकं कृतम्
ततोपि विहितं ब्रह्मन्भवता परमं हितम्
येनैकमपि मे लिंगं स्थापितं यत्र कुत्रचित्
अपराधसहस्रेपि ब्राह्मणं योपराध्नुयात् 4.2.62.
इति ब्रुवति देवेशेप्यंतरुच्छ्वसितं गणैः
अर्कोप्यवसरं ज्ञात्वा नत्वा शंभुं व्यजिज्ञपत्
अकिंचित्करतां प्राप्तः सहस्रकरवानपि
स्वधर्मपालके तस्मिन्दिवोदासे धरापतौ
प्रतीक्षमाणो देवेश त्वदामनमुत्तमम्
मनोरथद्रुमश्चाद्य फलितः श्रीमदीक्षशात्
इत्युदीरितमाकर्ण्य रवेर्वैरविलोचनः
ममैव कार्यं विह्तिं त्वं यदत्र व्यवस्थितः
इति सूरं समाश्वास्य देवदेव कृपानिधिः
योगिन्योपि सुदृष्ट्वाथ शंभुना संप्रसादिताः 4.2.62.
ततो व्यापारयांचक्रे त्र्यक्षो नेत्राणि चक्रिणि
ईशोपि श्रुतवृत्तांतस्तार्क्ष्याद्गणप शार्ङ्गिणोः
एतस्मिन्नंतरे प्राप्ता गोलोकात्पंच धेनवः
पंचमी कपिला चापि सर्वाघौघविघट्टिनी
ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः
पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्षदैः
कपिला ह्रद इत्याख्यां चक्रे तस्य महेश्वरः
आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
देवदेव जगन्नाथ भक्तानामभयप्रद 4.2.62.