मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् 4.2.61.
दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम् ।।4.2.61.
प्रचंडनरसिंहोहं चंडभैरवपूर्वतः । प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ।। 4.2.61.
त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् 4.2.61.
नारायणस्वरूपेण गणाश्चक्रगदोद्यताः 4.2.61.
वामनः शंखचक्राब्जगदाभिरुपलक्षितः 4.2.61.
वासुदेवश्च शंखारि गदाजलजभृत्सदा 4.2.61.
प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः 4.2.61.
पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः 4.2.61.
संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः
श्रुत्वा स्कंद न तृप्तोस्मि तव वक्त्रेरितां कथाम्
इदानीं श्रोतुमिच्छामि देवदेवसमागमम्
विष्णुमायाप्रपंचं च किमाह गरुडध्वजम्
ब्रह्मणेशः कथं दृष्टस्त्रपाकुलित चक्षुषा
योगिनीभिः किमाख्यायि गणाह्रीणाः किमब्रुवन्
इमं प्रश्नं निशम्यैशिर्मुनेः कलशजन्मनः
अशेषविघ्नशमनीं महाश्रेयोभिवर्धिनीम्
अथ देवोऽसुररिपुः श्रुत्वा शंभुसमागमम्
आयानं शंसते शंभोरुपवाराणसिप्रियम्
विवस्वता समेतश्च तैर्गणैः परितो वृतः 4.2.62.
अथनेत्रातिथीकृत्य देवदेवं वृषध्वजम्
पितामहोपि स्थविरो भृशं नम्रशिरोधरः
स्वस्त्यभ्युदितपाणिश्च रुद्रसूक्तैरमंत्रयत्
मौलिं पादाब्जयोः कृत्वा गणेशः सत्वरो नतः
अभ्युपावेशयच्चापि परिष्वज्य निजासने
योगिन्योपि प्रणम्येशं चक्रुर्मंगलगायनम्
खंडेंदुशेखरश्चाथ उपसिंहासनं हरिम्
ब्रह्माणं दक्षिणे भागे परिविश्राणितासनम्
मौलिचालनमात्रेण योगिन्योपि प्रसादिताः
अथ शंभुं शतधृतिः प्रबद्धकरसंपुटः 4.2.62.