तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम्
प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका
पश्चिमाभिमुखी नित्यं प्रबद्धकरसंपुटा
वरोद्यते करे सव्ये मातुलुंग फलं शुभम् 4.2.61.
शुद्धस्फटिककांतिश्च सुनील स्निग्धमूर्द्धजा
प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका
पुंडरीकमयीं मालां सश्रीकां बिभ्रती हृदि
निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम्
वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम्
मंत्रःसुरद्रुमसमः समस्तसुखसंततिप्रदो जप्यः
तारस्तारतृतीयो बिंद्वंतोमणिपदं ततः कर्णिके
अयं मंत्रोऽनिशं जप्यः पुंभिर्मुक्तिमभीप्सुभिः
परिप्लुतैः पुंडरीकैर्गव्येन हविषास्फुटैः
त्रिलक्षमंत्र जप्येन मृतो देशांतरेष्वपि 4.2.61.
पूजयित्वा पशुपतिमुपोषणपरायणाः 4.2.61.
तत्राभ्याशे स्कंदतीर्थं तत्राप्लुत्य नरोत्तमः 4.2.61.
योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् 4.2.61.
ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् 4.2.61.
पितामहेश्वरं लिंगं ब्रह्मनालोपरिस्थितम् ।। 4.2.61.
तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः 4.2.61.
मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् 4.2.61.
दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम् ।।4.2.61.
प्रचंडनरसिंहोहं चंडभैरवपूर्वतः । प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात् ।। 4.2.61.
त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् 4.2.61.
नारायणस्वरूपेण गणाश्चक्रगदोद्यताः 4.2.61.
वामनः शंखचक्राब्जगदाभिरुपलक्षितः 4.2.61.
वासुदेवश्च शंखारि गदाजलजभृत्सदा 4.2.61.
प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः 4.2.61.
पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः 4.2.61.
संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः