इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः
शेषवासुकिमुख्याश्च नागा वै नागलोकतः
चराचरेषु सर्वेषु यावंतश्च सचेतनाः
के माणिकर्णिकेयानां गुणानां सुगरीयसाम् 4.2.61.
चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः
विश्राणितमहादानास्त एव नरपुंगवाः
चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम्
त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः
कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः
रत्नानि सदुकूलानि कांचनं गजवाजिनः
पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः
कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः
जप्त्वैकामपि गायत्रीं संप्राप्य मणिकर्णिकाम्
एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम् 4.2.61.
इति श्रुत्वा हरेर्वाक्यमग्निबिंदुर्महातपाः
विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका
आगंगा केशवादा च हरिश्चंद्रस्य मंडपात्
स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते
सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे
मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम्
शतं समाःसु तृप्ताः स्युः प्रयच्छंति च वांच्छितम्
हरिश्चंद्रेश्वरं नत्वा न सत्यात्परिहीयते
अधिष्ठानं महामेरोर्महापातकनाशनम्
अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते 4.2.61.
कंबलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम्
अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः
संसारचक्रे गहने यत्र स्नातो विशेन्नना
समाः परार्धसंख्यातास्तत्र तप्तं महातपः
तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम्
द्रवरूपं परित्यज्य ललनारूपधारिणी