काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः
काश्युद्भवे प्रयागे ये तपसि स्नांति संयताः
प्रयागमाधवं भक्त्या प्रयागेशं च कामदम्
धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् 4.2.61.
माघे सर्वाणि तीर्थानि प्रयागमवियांति हि
काशीस्थितानि तीर्थानि मुने यांति न कुत्रचित्
आयांत्यूर्जे पंचनदे प्रातःप्रातर्ममांतिकम्
प्राप्य माघमघारिं च प्रयागेश समीपतः
समासाद्य च मध्याह्नमभियांति च नित्यशः
काश्यां रहस्यं परममेतत्ते कथितं मुने
अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित्
काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम्
एतदेव रहस्यं ते वाराणस्या उदीर्यते
गर्जंति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो 4.2.61.
पापानि पापिनां हत्वा महांत्यपि बहून्यपि
पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो
विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम्
वैकुंठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम्
सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम्
सत्यलोकात्प्रतिदिनं हं सयानः पितामहः
इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः
शेषवासुकिमुख्याश्च नागा वै नागलोकतः
चराचरेषु सर्वेषु यावंतश्च सचेतनाः
के माणिकर्णिकेयानां गुणानां सुगरीयसाम् 4.2.61.
चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः
विश्राणितमहादानास्त एव नरपुंगवाः
चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम्
त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः
कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः
रत्नानि सदुकूलानि कांचनं गजवाजिनः